________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९७) श्रीअर्बुदाचलवर्णनम् । नानागहरराजिराजितवपुर्विश्रामभूमिः सतां,
निर्मानप्रथिताम्बुपानविलसद्वीनां गणैर्नादितः । वितोभक्षुभितात्मनामपि सदाऽऽनन्दप्रदानक्षमः,
श्रीमानबुंद भूघरो गिरिवरो राजत्यखण्डप्रभः ॥ दरादर्शनतां गतो जनिमतां जीमूतशङ्काप्रदः,
सान्निध्यं भजतां गिरीन्द्रतुलनां विस्तारयत्यञ्जसा । आरूढोपरिभूमिभासुरधियां धात्रीभ्रमोद्दीपकः,
श्रीमानर्बुदभूधरो गिरिवरो राजत्यखण्डप्रभः ॥२॥ योग्यो योगिगणस्य निष्ठितमतेः सेव्यः सदा धीमतां,
तप्तानां सुखशान्तिसन्ततिकरः सन्तापतो देहिनाम् । काम्यः कर्मजुषां विशिष्टमनसां सिद्धिप्रयोगार्थिनां,
श्रीमानवंदभूधरो गिरिवरो राजत्पखण्डप्रमः ॥ ३ ॥ विश्रामस्थलमद्भुतं वनलतावृन्दस्य रुग्भेदिनो,
दीर्घाऽऽरोग्यविधानविश्रुतयशा दीप्तौषधीनां गणः । सौरभ्यं कलयन्मनोहरमहोद्यानव्रजो यत्र स
श्रीमानर्बुदभूधरो गिरिवरो राजत्यखण्डप्रभः ॥ ४ ॥ यस्मिनक्षयशान्तिदानरुचिराऽमन्दप्रभाभास्वरा,
श्रीमन्नाभिमहीपसूनुरनघो मोक्षार्थिनां मोक्षदः ।
For Private And Personal Use Only