________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७४)
सत्सङ्गीतमिदं शिलाष्टकवरं कोटिप्रभावं मुदा, . श्रीमत्सूर्यजिताम्धिना गुणवतां मोदाय निर्मायिना ॥१०॥
॥ श्रीजिनवरस्तोत्रम् ॥ जिनवर ! तव मृतिर्मामके मानसाम्जे,
निरयगतिहरं ते नामधेयं मुखे मे । अनिशमतुलमक्या मस्तकं त्वत्पदान्जे,
भवजलनिधिमग्नं रच मामार्त्तवन्धो! ॥१॥ कुरु कुरु मम शान्ति मावनम्रस्य नाथ !
सृजतु सृजतु लोके शान्तदृष्टिप्रभावम् । भवतु भवतु सर्वेः स्वार्थसिद्धस्त्वदीयो
जयतु जयतु कीर्चिस्त्वत्पदाम्भोजभाजाम् ॥२॥ जिनवर ! तव मूर्तिध्यानतो व्यग्रचेतः,
समुपगतमहो मे शान्तभावं समग्रम् । अतिकरुणकटाक्षः कृतार्थ कुरुष्व,
त्वदभिमतपदाब्जादन्यदेवं न याचे ॥३॥ तपतु तपतु लोकस्तीवभावेन तापैः,
पततु पततु शृङ्गात्पर्वतस्योच्चसंस्थात । चदतु वदतु वादैः श्लिष्टभावैश्च भावै
स्त्वहमसकृदमेयां मृतिमाराधयिष्ये ॥४॥
For Private And Personal Use Only