________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७३) पूज्याऽपूज्यविचारशून्यमनसामानन्दसत्केतनं. सिद्धां कोटिशिला स्तवीमि नितरां तो सत्यशालयम् ॥५॥ किं कर्तव्यमिति प्रकन्पितमतिर्यत्रास्ति नैव कचित, कर्माणि क्षपितानि नैव सुतरां भूयश्च लक्ष्याण्यहो ! । यस्यां कालगतिः करालभयदा नो वीक्ष्यते संस्थितः, सिद्धा कोटिशिला स्तवीमि नितरां तां सत्यशर्मालयम् ॥६॥ कन्याणं प्रतिपद्य ये श्रितदया निःशेषकर्मक्षयायत्राद्वैतमये समुन्नतरमे सिद्धे शिलायास्तले । राजन्तेऽकलुषात्मसाधितगुणा निर्दोषतोऽलङ्कृताः, सिद्धां कोटिशिला स्तवीमि नितरां तां सत्यशालयम् ॥७॥
श्रीतारङ्गगिरीन्द्रसस्थितमहोत्कृष्टप्रभाभासुरा, सिद्धानां सदनं प्रभावविदिता या दृश्यते ज्ञानिभिः। योगीन्द्रैरधिगम्यमानमहिमाऽऽनन्दप्रदानक्षमा, . सिद्धां कोटिशिला स्तवीमि सततं तां सत्यशर्मप्रदाम् ॥८॥ जुष्टा या मुनिकोटिभिः क्रमतया शश्वत्प्रभावाप्रमा, दीव्या देवगणैः सदा स्तुतयशाः सेव्या च विज्ञानिमिः। या दृष्टा किल देहिनां कलिमलं प्रक्षालयत्यञ्जसा, सिद्धां कोटिशिला स्तवीमि नितरां तां सत्यशालयम् ॥६॥
दुर्वाराणि निरन्तदुःखजनकान्याशु क्षति यान्ति वै, कर्माणि प्रबलानि यस्य पठनात्स्मरणाच्च शुद्धात्मना ।
For Private And Personal Use Only