________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७२) श्रीतारङ्गातीर्थकोटिशिलास्तुतिः। कोटिप्राणिसमुद्धृतौ धृतमहासामर्थ्य सारां वरामुष्णाशुं मिलितुं प्रवृद्धवपुषाऽऽकाशान्तरस्थामिव । विज्ञानकसुगम्यभूरिमहिमानं दूरदृश्यालयां, सिद्धां कोटिशिला स्तवीमि नितरां प्रत्यक्षकामप्रदाम् ॥ १॥ साध्यं लक्ष्यमनर्थसार्थविकलं मंसाधयद्भिः श्रिता, कोटाकोटिसुसाधुभिर्विगतभीयो दीव्यमा अक्षया । संप्राप्ताऽमलकेवलैंगतभयैर्निर्दोषमार्गाश्रितः, सिद्धो कोटिशिलां स्तवीमि नितरां तां सत्यशर्मालयम् ॥ २॥ या दीव्याऽनघसेवनीयकमला विक्षोभसंहारिणी, कामं कर्मकदर्थन कविभवा सिद्धश्रिया भ्राजिता । मव्यानां सुलभाऽऽत्मबोधविदुषां दुर्लक्षणीयाऽसतां, 'सिद्धा कोटिशिला स्तवीमि नितरां तो सत्यशर्मालयम् ॥३॥ यो भन्यामनुप्राप्य नैव विबुधाः संयान्ति जन्मान्तरं, प्रक्षीणाष्टकुकर्मवैरिसुखदा सर्वोपरिस्थायिनीम् । दुर्लक्ष्यां सुरपुङ्गवैरपि सदा क्षेमार्थिनां क्षेमदा, सिद्धां कोटिशिलां स्तवीमि नितरां तां सत्यशालयम् ॥४॥ कर्मक्लेशगणो न याति निकटं यामाश्रितानां पुनः, सिद्धानां समताजुषां भवमहावृद्धिप्रदः केवलम् ।
For Private And Personal Use Only