________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७५)
गणयति यदि कश्चिद्भूमिपसून्समग्रान्, तरति दृढभुजाभ्यां कोऽपि पाथोनिधिं वा । जलधरगताबिन्दून्कोऽपि संख्याति धीरस्तदपि जिनगुणानां नैव पारं प्रयाति
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं, सकलदुरितकचावह्निमुत्सर्पिकान्तिम् । गुणगरिममहो भीराजमानं समन्तात्, जिन पतिमनवद्यं संस्तवीमि प्रणम्य
जिनवर तव बोधि प्राप्य भूरिप्रतापां, कृतमपि मतिपूर्वं सन्त्यजाम्यद्य भावात् । निजमनसि नवीनं नैवमन्यत्करिष्ये,
दृढमतिरितिज्ञाता मे त्वदङ्घ्रौ नतस्य
प्रकुपितजनवृन्दस्त्वद्वपूर्वीक्षणेन,
प्रशमरतिमनन्पां सद्यएवाऽभियाति । समवसरण भाजः किं पुनस्ते विशालां, सुजनहृदयकान्तां देशनां कुर्वतो भोः
इदमतुलगुणानां भाजनं स्तोत्रमिष्टं,
पठति परमभक्त्या शुद्ध चेता नरोयः । स भवति गुणिपूज्यः क्षीणकर्मा क्रमेण, शिवपदमभियाति क्षुद्रभावं विहाय
For Private And Personal Use Only
॥ ५ ॥
11 & 11
॥ ७ ॥
11 2 11
॥ ९ ॥