________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मयापि तज्जीवनपरिचयेन, 'निजात्मकल्याणं शासनजगद्धितं च यथास्यात्तथा यतितव्य'मिति भावनया तत्संक्षिप्तजीवनं पूर्णयता विरम्यते ।
सूरीशस्य मुनीन्द्रस्य, विस्तृतं चरितं गुरोः। विद्यते विदुषां मान्यं, दयाधर्मनिकेतनम् ।। १॥ संक्षेपात्सारमुद्धृत्य, जनसन्तुष्टिहेतुकम् । प्रकटीकृतवानस्मि, जीवनाचरितं कियत् ॥२॥ समयं योग्यमासाद्य, व्यलेख्यनवकाशतः।। यथाज्ञातमनल्पार्थ, गुरुभक्तिवशादिदम् ॥३॥ महानसे पुरे रम्ये, रमणीयतरोदये ।। अभ्यर्थनेन भव्यानां, श्राद्धानां गुरुसेविनाम् ।।४।। चन्द्राङ्कनिधिभूयुक्ते, वैक्रमे वत्सरे शुभे ।
ऊर्जेमासि सितेपदे, पश्चम्यां तिथिवासरे ।। ५ ।। माणसा-कार्तिक-)
तत्पादपङ्कजालिमुनिशुक्लपञ्चम्याम्
हेमेन्द्रसागरः सं. १९९२
For Private And Personal Use Only