________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गविद्यः स गुरुभक्तिमेव मुख्यतोऽमन्यत । इति तदुपदेशेन निर्मापितानि श्रीमद्बुद्धिसागरसूरीश्वरस्य गुरुमन्दिराणि सूचयन्ति । आर्यसमाजिसनातनधर्मिनिस्तिपारसिकयवनानां धर्मस्थानेष्वपि गत्त्वा स्वयं व्याख्यानानि धर्मप्रवृत्तयेऽदात् । तेन च नरेशाननेकधा प्रबोधयता राज्यस्थानेषु सदुपदेशेनाहिंसाधर्म: प्रतिष्ठितः सततं विहारप्रियः स सूरिः क्रमेण श्रीनगर ( अहमदावाद ) सुरत-मुम्बापुरी-पट्टण-राजधन्यपुर (राधनपुर )-विजयपुर ( विजापुर-विद्यापुर )-सानंद-प्रान्तिक (प्रांतिज)-वटपल्ली ( वडाली )-प्रल्हादनपुर (पालनपुर )-महेशान (महेसाणा ) उमापुर (ऊंझा)-पादलिप्त (पालीताणा)-यामनगर (जामनगर)अमदावाद-प्रांतीज-पेथापुर-विजापुर-महानसादिपतनेषु चातुमौसी: कुतवान् । इत्थं स महानपि समाजकार्याणि धर्मबुद्ध्या साधयन् महत्वमानं मनसाऽपि नाऽचिन्तयत्. अन्यान् प्रभावशालिनो विधातुं सदैव स प्रमुदितोऽभूत् । अतस्तेन सतीर्थ्याभ्यां मुनिश्रीऋद्धिसागर-मुनिश्रीकीर्तिसागराभ्यां मुनिश्री दुर्लभविजय-मुनिश्री रंगविमल-अश्चलगच्छीय मुनिश्री दानसागरभ्यश्च गणिपदं पंन्यासपदश्च व्यतीर्यत ।
ततः पश्चाशीत्युत्तरैकोनविंशतितमे वैक्रमसंवत्सरे चाश्विन-- शुक्ल तृतीयायां स्वर्गस्थोऽभूत् । येनाऽऽत्मकल्याणं साधयता जगदुद्धारायाऽनल्पः परिश्रमः सेवितः, यतोऽधुना सोऽसन्नपि विद्यमानतां भजति ।
For Private And Personal Use Only