________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
न्थार्थाः देशभाषया प्रकटीकृताश्च । तद्विरचितग्रन्थाश्मे भीमसेनचरित्रं, अजित सेनचरित्रं, तरङ्गवतीकथा ( पद्यात्मका ) चन्द्रराजचरित्रं, स्तुतयः, श्रीशोभनस्तुतेष्टीका, धर्मशर्माऽभ्युदय - नेमिनिर्वाण - तिलकमञ्जरी - शान्तिनाथचरित्रादिमहाकाव्यानां टीकाः, शब्दसिन्धुः, बुद्धिप्रभाव्याकरणं, सुभाषितसाहित्यं, बुद्धिसागरसूरिचरित्रं, श्रीकल्पसूत्रसुखबोधिका घेति संस्कृतगिरा गुम्फिताः सन्ति । कृतिश्चैषां मनोहारिणी सुगमा रसमयी च । वेदान्ततत्त्वञ्च तेन ग्रन्थद्वाराव्यक्तीकृतम् । वेदान्तरहस्यं च काव्यप्रबन्धेन गुर्जरगिरा बहुधा विशदीकृत्य प्रकाशितम् । तच्च समयोचितभावमयं हृल्लासकं जनानानन्दयति । सुपार्श्वनाथचरित्र - सुरसुन्दरी - कुमारपालचरित्रादीनां भाषान्तराणि तद्रचितानि मुद्रितानि वर्त्तन्ते । इत्थं तेन मुनिना साहित्यप्रमुखप्रवृद्धिर्विशेषतो विहिता ।
1
तेषामीदृशीं प्रखरशक्तिमनेकधाऽपरयोग्यतां च निरीक्ष्य तस्मै योगनिष्ठाध्यात्मज्ञानदिवाकर श्रीमदाचार्य बुद्धिसागरसूरिभि: ( प्रांतिज) पत्तने अशित्युत्तरै कोनविंशतितमेऽब्दे आचार्यपदं प्रदत्तं सागरसंघाटकस्यधूश्च समर्पिता । ततोऽसौ कियत्कालं सूरिपदं व्यंभूषयत्, तदन्तरेऽपि ग्रन्थविलेखने देशनादाने च तेन सर्वथा समयो व्ययितः । महात्मनां चयोऽपि जगञ्जनानाममूल्य इति को न विजानाति ? । धार्मिकसामाजिकोन्नतिकारकप्रवचन-प्रदानेन सह कानिचिद्धार्मिक क्षेत्राणि गुरुकुल विद्यानिकेतनानि च साहाय्यदानद्वारा सजीवनानि विहितवान् सः । अभ्यस्तयो-'
For Private And Personal Use Only