________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५
नादृत्य पूर्वोकसूरश्विरपादान्ते श्वेताम्बर साम्प्रदायिका संवेगिदीक्षा स्वीकृता । अजित साग़र इत्यभिधया ख्यातिमभज इस्मिन् सम्प्रदाये, यद्यपि स्थानकवासिमतं वितथं विज्ञाय त्यक्तवान् तथाऽपि परमतसहिष्णुत्वात् सोऽन्यमतानिव तन्मतमपि समानभावेनाऽपश्यत् ।
9
बहुशस्तेन स्थानकवासिसाधुभिः समं प्रसिद्धभाषणादिप्रवृत्यो विहिताः, अत एव निश्चीयते तन्मनसि क्वचिदपि केनापि सार्द्धं तिरस्कारो द्वेषबुद्धेिश्य न प्रादुरभवत् । सर्वैः सह प्रमोदभावेन वर्तितव्यं सत्यवर्त्म न परित्याज्यमिति तजीवनस्य प्रधानताऽऽसीत् । अथ स मुनिराजः प्रत्यहं ज्ञानवृद्धिं विधातुं प्रावर्त्तत, संस्कृतप्राकृतवाङ्मयतत्त्वानि सम्यग् ज्ञातवान् । तदन्त्रागमिकभावान् पुनरवलोकितवान् । तत्तट्टीका नियुक्तिभाष्यचूर्णिंकापर्यालोचनत श्रागमिकगौरवं तेन प्रत्यक्षीकृतम् । प्राथमिकवक्तृत्वशक्तिप्रभावेण सञ्जातप्रसिद्धिसन्मानोऽसौ विशेषतः स्वागमज्ञानपूर्वकं निजगुरुसकाशात्प्रत्यहं संप्राप्ताध्यात्मज्ञानादिना व्यस्फुरत् । विज्ञानतपसा बपुरपि सविषयं कृशतामभजत् । श्रष्टाहिकादितपश्चर्या बहुशः परिचिता तेन, योगोद्वहनतप आराध्य ज्ञानाश्वाराधितम् । ततः सानन्दनगरे तस्मै महोत्सवपूर्वकं पंन्यासश्रीमद्वीरविजयेन पंन्यासपदं गणिपदं च प्रदत्तम् । मेघगम्भीनादेन सततं देशना प्रदानेन लोकोपकारकारिणा पंन्यास श्रीमद् अजित सागरगणिना जीवनं परहितायैव व्ययितम् | संस्कृत - प्राकृतभाषायां तेन बहवो लेखाः प्रादुष्कृताः, संस्कृत - प्राकृतम
For Private And Personal Use Only