________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९
श्रीमहावीरस्मरणम् ।
भज महावीरं भज महावीरं महावीरं भज मूढमते ! मरणे संनिहिते संयाते, नहि नहि रक्षति भोगविलासः ।
भज महा० ध्रुवपदम् ॥
द्वारा: कारागारा असारा चित्रचरित्राश्चित्तलवित्राः । पुत्रा मित्रजनाः सुखजननाः, सर्वेऽप्येते शिवसुखहननाः ||
भज महा० ॥ १ ॥
Harrat भ्रमणं कृत्वा सम्यग्धर्मरतिं ननु हित्वा । रे मनुज ! त्वं मिथ्या धर्म, किं न जहासि कुकर्मनिदानम् ?
भज महा० ॥ २ ॥
कायः प्रायः कर्मनिकायो - न्यायः प्रायो नास्ति विमायः । परिवारोऽयं निजसुखरक्तः, परहितकरणे क्वाऽपि न शक्तः ॥ भज महा० ॥ ३ ॥
नायं देहो दीव्यविलासः, स्थाताऽस्थिरतरकल्पितवासः । माता भ्राता पुत्रकलत्रं, सर्वभ्रश्यत्यचिरा मित्रम् ||
भज महा० ॥ ४ ॥
For Private And Personal Use Only