________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४८ )
॥ श्रीतारङ्गतीर्थाष्टकम् ॥
लोकालोकावभासकं विश्वगुणं भासा जगद्योतकं, शान्ताकारमनन्पवीर्यजलधिं जलजेक्षणं मोचदम् ।
प्रत्यक्षीकृततश्वराशिमनिशं स्वात्मस्वरूपस्थितं, तारङ्गाऽजितनाथदेवमनिशं वन्दे मुदा मोक्षदम् ॥ १ ॥
श्रात्मानन्दनिमग्नमचयसुखोत्पत्तोर्निदानं परं मायातीतमभेद्यभेदक धियं ज्ञानामृतेनाणुना । संसारोदधिसेतुसारमचलं निर्भेदकं कर्मणां, तारङ्गा जितनाथदेवमनिशं वन्दे मुदा मोक्षदम्
संसारोदधिमप्रतापशमकं निर्मायिकोदन्तकं, मध्यादयन्जसहस्ररश्मिमनघं सिख्यास्पदे संस्थितम् । हन्तारं निजपादपद्मनिरतानां कर्मणां सर्वदा, तारङ्गाऽजितनाथदेवमनिशं वन्दे मुदा मोक्षदम् ॥ ३ ॥
केनाऽप्यत्र न जीयतेऽजितविभुर्विज्ञायतेऽसौ ध्रुवमन्वर्थ विदधान एष विमला संज्ञां सदा राजते । तं देवासुरपन्नगेन्द्रमहितांयब्जाशुकं पारगं, तारङ्गाजितनाथदेवमनिशं वन्दे मुदा मोक्षदम्
नानादेशसुपत्तनागत महासङ्घस्य सन्तारकं, संसाराऽनलतप्तभूरिमनुजक्षेमाय शीताम्बुदम् ।
॥ २ ॥
For Private And Personal Use Only
॥ ४ ॥