________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४९ )
दारिद्र्यं दलयन्तमिष्टमनसां संपूजकानां सदा, तारङ्गाऽजितनाथदेवमनिशं वन्दे मुदा मोक्षदम् ॥ ५ ॥
द्वात्रिंशत्पृथिवीविमिन्नमतुलप्रोद्दामशृङ्गोच्छ्रितं, दीव्यं धाम समाश्रयन्तमचलं नाकीन्द्रसंपूजितम् । संगीतत्रिजगद्यशोधनमनन्तानन्दसन्दोह कं, तारङ्गाजिवनाथदेवमनिशं वन्दे मुदा मोक्षदम् || ६ ॥ प्रालेयाऽचलवद्विपचिसमये स्थैर्थ परं चेतसि, संभृत्यान्यजनोपकारकरणे निर्व्याजबद्धादरम् । सिद्धान्तोच्चनयार्थतस्व निचयं वक्तारमिद्धास्पदं, तारङ्गा जितनाथदेवमनिशं वन्दे मुदा मोचदम् मानुष्यं सफलं तनोति मनुजो यत्पादपद्माऽचनं, -वाक्कायेन हृदा विधाय नितरां निर्धूतपापव्रजः । संसारोदधितारकं शुभगुणश्रेणीप्रदं तं वरं, तारङ्गा जितनाथदेवमनिशं वन्दे मुदा मोचदम् तारङ्गा जितदेवताष्टकमिदं कर्माष्टकष्टच्छदं संसारार्णवशोषकं गुणगणानुच्चान् ददद्धीमताम् | यो नित्यं प्रपठत्यथो स्मरति वा श्रुत्वाऽप्यवश्यं भुवि, सोऽयं याति परं पदं क्रमतया शुद्धस्वरूपं भजन् ॥ ९ ॥
For Private And Personal Use Only
11 19 11
॥ ८ ॥