________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४७) जीमूतः सुकृतोपकारसुलतासंवर्द्धने शर्मदा, भीसिद्धाचलमानमामि गुणतः सर्वज्ञराजिश्रितम् संसाराम्बुनिधिस्खलचनुमतां यो नौप्रमावायते, यो वै भीष्ममवाटवीनिपततामुद्यानकन्पायते, यो नैसर्गिकवरबद्धवपुषां निर्वैरमोदायते, तं सिद्धाचलमानमामि गुणतः सर्वज्ञराजिश्रितम् ॥६॥ धर्मार्थिवजमानसोरुसरसि भ्राजत्पयोजप्रभः, संसेव्यः कलिकालजातमनुजैर्योभूतले मावतः। सद्योयः स्मृतमात्र एव सुखदः कैवन्यदः सर्वदा, श्रीसिद्धाचलमानमामि गुणतः सर्वज्ञराजिश्रितम् ॥७॥ यन्माहात्म्यसमाहृतः समजुषः शान्ताः समे संयताः, साध्व्यः साधुगणाचशर्मकलिताः श्राद्धाः कुटुम्बान्विताः । यत्पद्यां न परित्यजन्ति गुणिनः पादं यथा सद्गुरोस्तं सिद्धाचलमानमामि गुणतः सर्वज्ञराजिश्रितम् ॥ ८॥ श्रीसिद्धाचलसंस्तुति वरतमा यो ना त्रिसन्ध्यं पठेव, शुद्धाचारसमायुतः शिवपथप्रेची सतां शोभन: । सोऽक्लेशेन भवं भयोज्झितमनास्तीर्चा विपदायिनं, मुक्त्वाऽनन्तसुखं क्रमेण शिवगः संजायते धर्मवित् ॥ ९॥
For Private And Personal Use Only