________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४३ )
प्रबुद्धाऽचिन्तयत्स्वान्ते, साकिमेतदितिस्वयम् । स्वप्रस्यास्य प्रभावस्तु, ज्ञातव्यः सकलो मया विचार्येतिप्रगे स्वीयं, भर्त्तारं समुपेत्य सा । प्रमोदमेदुरस्वान्ता, स्वप्नवार्त्ता न्यवेदयत्
118 11
For Private And Personal Use Only
॥ ५ ॥
( अपूर्णम् ).
॥ श्रीमन्महावीराष्टकम् ॥ ( शार्दूलविक्रीडितवृत्तम् ) हिंसा यज्ञनिवारकाय जनतासौख्यप्रबन्धार्थिने, स्याद्वादप्रतिबोधतः प्रकटितक्षेमाऽध्वने तायिने । सर्वेष्वङ्गिषु साम्यदृष्टिमनिशं संभाव्य लोकोत्तमां, पूजाऽय नरामरेन्द्रभविनां वीराय तस्मै नमः ॥ १ ॥ शङ्काऽभूत्रिशुरेष सोढुमनलं शैलेन्द्रसानौ हृदि,
देवेन्द्रस्य तदात्मशक्तिरन घेत्याख्यापनार्थं प्रभुम् । पादाङ्गुष्ठनिघाततो गिरिवरं यः कम्पयामासिवान्,
तं वीरं प्रणमामि शुद्ध मनसा कारुण्यपाथोनिधिम् ॥२॥ दीव्योदारसुचारुकान्तिसुभगं सौभाग्यदिव्याऽऽलयं, प्रचीणप्रबलप्रकामविषयं प्रध्वस्तमोहोदयम् । यं देष्टारमनल्पवैरवशगा आजन्मतः प्राणिनोदृष्ट्वा शान्तिमुपागताः समतया वीराय तस्मै नमः ॥ ३ ॥ ध्यानं वीरजिनेश्वरस्य सकलां दत्तेलसत्सम्पदं, सद्बुद्धिं वितरत्यमेयसुखदां यस्य त्रिलोकेशितुः ।