________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४४) यच्छत्यैहिकशर्मराशिमपरं स्वर्गाऽपवर्ग प्रभु,
वन्दे तं सततं कृपैकवसतिं शुद्धात्मना निर्मयम् ॥ ४ ॥ यन्मुर्तिः शिवशर्मसेवधिरलं लक्ष्यीकृता भावतो
दारियं दलयत्यनर्थजनकं तस्याऽक्षयाऽथेप्रदा । तं वीरं मनसा स्मरामि शिवदं दंदह्यमानं जनं,
त्रातारं भववारिधौ भयनिधौ दुःखाऽनलज्वालया ॥५॥ यस्मिनेत्रपथं गते भवभयभ्रान्तिप्रणाशक्षमे,
भक्तानामभयप्रदे चितितले नश्यन्ति सर्वाऽऽपदः। - प्रत्यक्षीकृतसर्ववस्तुनिचयं निर्बाधबोधाकरम् , तं श्रीवीरविभुं भजामि नितरां निर्वारिताऽरिव्रजं ॥६॥ पीतं यद्वचनाऽमृतं गमयति स्वर्ग जनानुत्तमान् ,
मोक्षश्चापि शनैः शनैः शुभमतीनैकान्तवादश्रितम् । लोकेऽस्मिन् प्रददाति भूतिमनघां निर्बाधसंपद्गृह, तस्मै श्रीत्रिशलाऽऽत्मजाय जगतां पूज्याय नित्यं नमः॥७॥ यन्मूर्तिः स्फुरति प्रकामविशदा येषां हृदि प्रत्यहं,
ते संसारसमुद्रमुन्नतधियोऽभीतास्तरन्त्यञ्जसा । सर्वारिष्टकषायमीनमकरवाताऽतिभीतिप्रदं,
तं श्रीवीरजिनेश्वरं प्रणमत क्षेमार्थिनः प्राणिनः ॥ ८॥ हेमेन्द्रसागरमुनिर्गुरुभक्तिनुन्नः, स्वाऽऽत्मोन्नतिप्रथनधीधृतिमादधानः।
For Private And Personal Use Only