________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४२) यस्यां नैव विपर्यासः, संशयोऽसंभवस्तथा । दोषत्रयं च नैवास्ति, कुतर्कन्यायकल्पना ॥ ७॥ यां विराज्य जना मृत्वा, नरकाऽऽतङ्कवेदिनः । पुनर्गर्भगता लोके, पच्यन्ते धर्मभीरवः ॥८॥ यां विदित्वा हितां भव्याः, शिवशर्मविभागिनः ।। शुद्धसम्यक्त्वसंपन्ना-नष्टमिथ्यात्वसंभ्रमाः ॥९॥ जिनवाचं समाराध्य, नरनारीव्रजः कलौ । साम्यभावेन शिवदं, धर्म याति न संशयः ॥१०॥ जिनवाणीरसज्ञात्रा-ऽजितसागरसूरिणा। रचितं स्तवनं भक्त्या, जनोपकृतिहेतवे ॥११॥
achmen ॥ अथ श्रीगौतमप्रशस्तिः ॥ श्रीवर्द्धमानं प्रणिपत्य पूज्यं,
गुरुं च मूर्ना शुभतत्त्वहेतुम् । श्रीगौतमस्य प्रवरस्य वक्ष्ये,
गुणान्गुणधीरनिधेः प्रभूतान् ॥ १॥ गोवरग्राम आराम-मण्डितोऽभूत्क्षितौ वरः।। चसुभूतिद्विजस्तत्र, वरेण्यः पृथिवीप्रियः एकदा सुखशय्यायां, निद्राणा सा सुलक्षणा । इन्द्रसौधं सुधागौरं, ददर्श दिग्विभासकम्
For Private And Personal Use Only