________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४१ )
सर्वधर्मप्रधानाऽसौ सर्वदा सर्वदायिना । सप्रभावाऽर्हतां श्रेणी, कुरुतां जगतां शिवम् ॥ ९ ॥
सर्वमङ्गलसद्धेतुः, सर्वकर्मविदारिका ।
सर्वसौभाग्यजननी, सा भूयाद् भूतिदायिनी ॥ १० ॥
व्यराजद्या सदा शैलेs - ष्टापदाख्येऽर्हतां ततिः । वितनोतु जगच्छ्रेयः, सा भवाऽर्त्तिहरा वरा ॥ ११ ॥
॥ अथश्री जिनवाणीस्तवनं प्रारभ्यते ॥ जयन्तु जैनधर्मस्य, देष्टारो जिनपुङ्गवाः । द्वादशांगी सुधाकल्पा, रचिता यैहितावहा यदा तीर्थंकरा देवाः, केवलज्ञानधारिणः । अवधिज्ञानिनो जङ्घा - विद्याचारिगणान्विताः मनः पर्यवभृत्पूर्व-धारिणश्च नभश्वराः । महाध्यानिक्षमासारा-नो सन्ति वैक्रियर्द्धिकाः || ३ || तदा जिनोक्तया वाचा, सारया पञ्चमारके । तरन्ति मनुजाः सर्वे, सुघोरं भवसागरम् शुद्धसम्यक्त्वदेवद्रु- र्दयाविस्तारिणी सदा । हिंसासंवारिणी वाणी, जिनोक्ता भ्रमनाशिनी ॥ ५ ॥ या चिन्नोच्छेदिनी वाणी, शल्यत्रयविभेदिनी । मायाकन्द कुठारी च भवपाथोधितारिणी
॥ ६ ॥
For Private And Personal Use Only
॥ १ ॥
॥ २ ॥
॥ ४ ॥