________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२६) कृतवन्दनका निद्रां, हृत्वा स्तोत्रं विधाय च । निजावासं ययुः सद्यो-विहितोचितभक्तयः ॥५॥ सूर्योदये धरानाथं, वर्द्धापयति किङ्करी । नृपेणाऽतिप्रमोदेन, चक्रे जन्ममहोत्सवः ॥६॥ दानानि विविधान्याशु, दत्तानि विधिपूर्वकम् । मोदमाला धृता रेजे, दीव्यमालोपमर्दिनी ॥७॥ संपन्नयावनः स्वामी, कृतनारीपरिग्रहः । विज्ञायावसरं दीक्षां. जग्राह शिवसाधिकाम् ॥८॥ ततस्तोत्रं तपस्तेपे, दान्तः शान्तो जितेन्द्रियः। ध्याननिष्ठो जितश्वासः, क्षान्तकष्टः क्षमोदधिः।। ९ ।। ज्ञानोद्योतकरः पाप-प्रणाशी गुणसागरः। शुद्धसंयमवाल्लोक-त्राता दूषणघातकः ॥१०॥ निर्मानमोहलोभश्च, माया दूरगता यतः शुक्लध्यानगतश्छिन्न-कर्मवैरी सुकेवली ॥११ ।। महिमानं जिनेशस्य, निशभ्य समुपागताः । विस्मिता लजिताः सर्वे, गतगर्वाश्च जज्ञिरे ॥ १२ ॥ प्रभुणा बोधिताः सद्यः, संयमस्थिरमानसाः । इन्द्रभूतिर्वभूवाद्यो-गणभृत् पूर्वधारकः ॥ १३ ॥ मध्यब्धिशतसंख्यानः, साई दश गणाधिपाः । प्रवीणास्तत्ववेत्तारो-बभूवुरपरेऽग्रहाः ॥ १४ ॥
For Private And Personal Use Only