________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२५ )
काsपिनैवापदः स्थानं, प्राप्यते मानवोत्तमैः । सम्यक्त्वधर्मसद्भाव - भावितात्मभिरन्वहम् ॥ ४२ ॥
अर्हत्स्तोत्रमिदं भूरि-संपत्तेरादिकारणम् । पठनाज्जायते सूरि - अजिताब्धिविनिर्मितम् ॥ ४३ ॥
॥ अथ श्रीमहावरिजिनस्तवनं प्रारभ्ये ॥
( भुजङ्गप्रयातवृत्तम् )
नमामि क्षमाशालिनं शासनेशं, शिवर्द्धिप्रियं सौख्य संपत्सुहेतुम् । गुणाऽऽनन्त्यभाजं प्रजापालनेशं, महावीरमीड्यं सुराधीशवर्गैः
विनीतक्षमानाथसिद्धार्थजातं,
कुलस्यन्दनोच्च ध्वजं राजमानम् ॥ समुत्पन्न कैवल्यमापादयन्तं । स्वकीयापरक्षेमसंसाधनानि
॥ १ ॥
॥ २ ॥
॥ ३ ॥
समागत्य सुराधीशाः, समं कम्पितविष्टराः । नवा जिनं गृहीत्वा च गिरिराजमुपाययुः ॥ महोत्सवं वरं तत्र, विधाय शुभभावतः । पुनः संस्थापयामासु - जिनाम्बासन्निधौ जिनम् ॥ ४ ॥
For Private And Personal Use Only