________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२४) एवं स्थिता नृदेवाद्याः, शृण्वन्ति धर्मदेशनाम् । श्रेयोबुद्धया महाभावाः, कर्मग्रन्थिविमोचनीम् ॥३४॥ . चतुर्दिनु ग्रहाः सर्वे, सनक्षत्राः मुनिर्मलाः । एकविंशतिसूर्याश्च, प्रकाशन्ते सुखावहाः ॥३५॥ जनयन्ति सुतान्सर्वाः, काचिदेव जिनेश्वरम् । धन्या सा त्रिषु लोकेषु, या सर्वज्ञप्रसूः खलु ।। ३६ ॥ शशी भानुः सुधासिन्धुः, सुमेरुर्नोपमीयते ।। येनाऽहं तस्य मन्दज्ञो-गुणान्वक्तुं कथं क्षमः ।। ३७ ॥ सुरगुरुयदि क्तुमुपक्रमेत् ,
तदपि तीर्थंकृतो गुणसन्ततिम् । सततमुग्रधिया न हि पारतां,
व्रजति भूरितरैरपि हायनैः ॥ ३८॥ स्मरणं देवदेवस्य, यो जनो भावतः क्रियात् । नाऽऽयान्ति सन्मुखं तस्य, गजवैरिमृगारयः : ३९ ॥ ऋद्धिसिद्धिनिधानानि, स्वयं यान्ति वशं सदा । राजरोगा विपमृत्यू, पलायन्ते च दूरतः ॥४०॥ शुद्धभावतया स्तोत्र-मेतद्वै नरयोषितः । पठन्ति भवपाथोधि, तीर्खा यान्ति शुभां गतिम् ।।४१॥
For Private And Personal Use Only