________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२३) चतुस्त्रिंशदतिशयै-र्गीमघ इव गर्जति । चतुष्षष्टिः सुरेन्द्राश्च, सेवन्ते भूमिपा विभुम् ॥२४॥ पाखण्डा यत्र खण्ड्यन्ते, मिथ्यामोहविवर्द्धकाः । स्थाप्यन्ते च शुभाधर्मा-लोकसंस्थितिहेतवः ॥२५॥ महिमख्यापकं तत्र, प्राकारत्रयमुनतम् ।। प्रथमो रूप्यसंपन्नो-हिरण्यकपिशीर्षकः ॥२६॥ मणिरत्नमयान्यत्र, राजन्ते तोरणानि वै । सोपानानां सहस्राणि, दश राजन्ति सुप्रभम् ॥२७॥ वप्रो द्वितीयः सौवर्णः, सुरत्नकपिशीर्षकः । तृतीयो रत्नसंपन्नो-माणिक्यजडिताग्रकः ॥२८॥ सहस्रैः पञ्चभिः सुष्टु-सोपानैः परिवारितः। धनुः पञ्चशतोत्तुङ्गा-भित्तयो मानतः शुभाः ।। २९ ॥ पीठिका शोभना तत्र, मणिरत्नविराजिता ।। प्रकाशकारिणी भव्या, सोपानराजिराजिता ॥३०॥ तत्र सिंहासनं दीव्यं, शोभते विपुलप्रभम् । तस्मिन्नेव समासीनो-धर्म दिशति केवली ॥३१ ।। तिष्ठन्तीशानके श्राद्धाः, श्राविकाः कल्पवासिकाः। वैमानिका मुनीन्द्राश्च, श्रमण्योऽग्निदिशि स्मृताः॥३२॥ नैते व्यंतरा देवा-भुवनाधीशदेवताः । देव्यस्त्रयाणां देवानां, वायव्यां तन्वते स्थितिम् ॥३३॥
For Private And Personal Use Only