________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२२) भामण्डलप्रभाभिन्न-तिमिरो यत्र तीर्थपः । प्रयाति समभूस्तत्र, कण्टका अप्यधोमुखार ॥ १६ ।। ऋतवोऽपि भवन्त्याशु, योजनं सुखकारिणः । अनुकूलमरुत्पांसु-वर्जिताऽम्बुप्रदो घनः ॥ १७ ॥ जानुमात्रसुमक्षेपो-जायते विभुसन्मुखम् ।। मुखश्वाससुगंधेन, स्थलं सर्व सुवासितम् ॥१८ ।। मागधी गौरवार्था च, भाषापि लोकरजनी। धर्म दिशति द्वादश-परिषत्सु स्थितः प्रभुः ॥ १९ ॥ गृह्णन्त्यर्थं समे सभ्याः, प्रस्फुटं स्वस्वभाषया । वैरबुद्धिं परित्यज्य, मृगसिंहादयः स्थिताः ॥ २० ॥ विवादं विविधं भव्याः, कुर्वन्ति मोदधारिणः । ईतयो न प्रवर्त्तन्ते, कोशं यावत्प्रभावतः ॥ २१ ॥ मारणादिप्रयोगास्तु, न श्रूयन्ते जनैरहो। शतक्रोशं च दुष्काल-स्थिति व विभाव्यते । २२ ।। न्यूनाधिको न पर्जन्यो-वर्षति क्षेमकारकः । निरातङ्का जनाः सर्वे, मोदन्ते निरुपद्रवाः ॥ २३ ॥ १ "सारणी सिंहशावं स्पृशति सुतधिया नन्दनी व्याघ्रपोतं, मार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजङ्गम् । वैराण्याजन्मजातान्यपि गलितमदा जन्तवो ऽन्ये त्यजेयु:, दृष्ट्वा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् ॥१॥"
For Private And Personal Use Only