________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२१ )
परमाणूपम श्रोत्रो - भ्रकुटिर्धनुराकृतिः । विकस्वरसरोजाचः, सरलो तुङ्गनासिकः
॥ ६॥
11911
॥ ८ ॥
विद्रुमोष्ठः श्रिया चन्द्र-सङ्काशरदनाssवलिः । रसनाऽमृतसंश्लिष्टा, रम्यश्मश्रुप्रदेशकः सुदीर्घकन्धरः पुष्ट-भुजयुग्मोऽहिबाहुकः । पयोजसमपाणिश्च, संहिताऽङ्गुलिपल्लवः ताम्रवर्णा नखा यस्य तं वन्दे शासनाधिपम् । शशिभानुसमा रेखा - राजन्ते च करस्थिताः ॥ ९॥ गङ्गावर्त्तसमा नाभिः, पञ्चाननकटिः शुभा । कृशोदरश्च शुण्डोरुः, कूर्मपृष्ठसमक्रमः अंघ्रितर्जितपद्माभो - निश्वद्याऽङ्गुलित्रजः । तेजस्तिरस्कृतोष्णांशुः, सुरेन्द्रचित्तहारकः ॥ ११ ॥
॥ १० ॥
केतकीसुरभिश्वासो- गोक्षीरमांसशोणितः । अदृष्टाऽऽहारनीहारः, समर्यादनखाऽलकः ॥ १२ ॥ छत्रत्रयं नभोमध्ये, चलति स्वप्रभावतः । चामराण्यतिशुक्लानि, वीज्यन्ते दीव्यशक्तितः ॥१३॥ सपादपीठकं सिंहा- सनमाकाशसंस्थितम् । शुद्धस्फटिकरत्नैश्च, खचितं मौक्तिकस्तथा ॥ १४ ॥ इन्द्रध्वजः शुभाकारः, सहस्रध्वजमण्डितः । ऋतवः षद् समं यस्य, फलपुष्पप्रदायिनः ॥ १५ ॥
For Private And Personal Use Only