________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२० ) विजयो मल्लदेवश्च, देवस्तीर्थविधायकः । अनन्तवीर्यनामा च, भद्रकृचर्मतीर्थकृत् ॥२०॥ भाविन्येषा महोत्तुङ्गा, चतुर्विंशतिरहताम् । सापि चत्वारि तीर्थानि, स्थापयिष्यति भूतले ॥२१॥ अतीताऽनागता चैषा, वर्तमाना द्विसप्ततिः। जिनेन्द्राणां कृपाशीला, लोकसंस्थितये स्मृता ॥२२॥ जिनस्तोत्रमिदं भव्यं, भव्यानां भवनाशकम् । प्रथ्यतां ग्रथितं लोके-ऽजितसागरमरिणा ॥२३॥
॥ अथार्हजिनस्तोत्रं प्रारभ्यते ॥ प्रणमामि जिनेन्द्र ! त्वां, मुनीन्द्रगणनायकम् । सुराऽसुरनराऽधीशा-नागेन्द्रा यस्य सेवकाः ॥१॥ गृहवासं परित्यज्य, सुमतिक्षेमसंगमः । तपोग्निदग्धकर्माऽऽलिः, शुद्धभावोच्चभस्त्रिकः ॥२॥ चतुस्त्रिंशदतिशयै-राजितो दिव्यदेहभृत् । मुक्तिप्रियो विशेषज्ञो-निर्भयोऽथ निरामयः ॥३॥ आधसंहननः स्वामी, निष्कलङ्कोऽथ निर्मलः । निर्लेपः स्फारदेहामः, पर्वताप्रशिरोद्युतिः ॥४॥ कजलोपममूर्द्धन्यो-दाडिमोपमकेशभूः । अर्धचन्द्रललाटश्च, पूर्णचन्द्रोपमाननः १ प्राणायामविशेषो भस्त्रिका.
For Private And Personal Use Only