________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११६) अथास्सिन्मरतक्षेत्रे, ऋषभाजितसंभवाः । तूर्योऽभिनन्दनस्वामी, सुमतिः छिन्नदुर्मतिः ॥१०॥ पद्मप्रमः सुपार्श्वश्च, श्रीचन्द्रप्रभ ईश्वरः । सुविधिः शीतलः शान्तः, श्रेयांसो धैर्यधूर्वहः ॥११॥ वासुपूज्यश्च विमलोऽ-नन्तः श्रीधर्मतीर्थकृत् । शान्तिकुन्थू-जिनौ ख्याता-वरमल्ली जिनेश्वरौ॥१२॥ मुनिसुव्रततीर्थेशो-नमिनाथ उदारधीः। त्यक्तराजीमतिर्नेमिः, श्रीपार्थवर्द्धमानको ॥ १३ ॥ वर्तमाना तच्चसिन्धु-चतुर्विंशतिरर्हताम् । प्राप्तकैवल्यविज्ञाना, सिद्धास्पदविगाहिनी ॥ १४ ॥ मय्यर्हन्तः कृपावन्तः, सर्वकर्मविघातिनः । शशिसूर्यनिभांस्तांश्च, स्मरामि भावतोऽभयान् ॥ १५ ॥ अनागतजिनेन्द्राणां, नामानि वर्णयाम्यथ । पद्मनाभः शूरदेवः, सुपार्श्वश्च स्वयंप्रभः ॥ १६ ॥ सर्वानुभूतिरीशानो-देवश्रुतजिनेश्वरः । क्षीणकर्मोदयो वीरः, पेढालः पोट्टिलस्तथा ॥१७॥ शतकीर्तिः सुविख्यातः, सुव्रतश्चाऽममोऽमलः । निष्कषायः सुरपार्यो-निष्पुलाकश्चतुर्दशः ॥१८॥ निर्ममश्चित्रगुप्तश्च, समाधिर्जिननायकः । संवरोऽष्टादशः प्रोक्तो-जितेन्द्रिययशोधरः ॥ १९ ॥
For Private And Personal Use Only