________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११८ )
॥ अथजिनस्तवनं प्रारभ्यते ॥
श्री गौतमं नमस्कृत्य, जिनवाणीमहानिधिम् । ततः श्रीगुरुपादाब्जं, कालत्रयसुखावहम् चतुर्विंशतयोऽनन्ता-भूतास्ताः शिवहेतुकाः । प्रणमामि सदा भक्त्या, संसारोदधितारकाः ॥ २ ॥ तासामतीतां वक्ष्यामि, चतुर्विंशतिमुत्सुकः । केवलज्ञानी निर्वाणी, सागरोऽथ महायशाः ॥ ३ ॥ विमलः सर्वानुभूतिः, श्रीधरोदत्ततीर्थकृत् । दामोदरः सुतेजाच, स्वाम्यथो मुनिसुव्रतः ॥ ४ ॥ सुमतिः शिवगतिश्वाऽ-स्तागस्तीर्थकृतांवरः । नमीश्वरो महाधैर्य - वानिलः सुरवन्दितः
।। ५ ।।
॥ १ ॥
॥ ६ ॥
यशोधरकृतार्थी च, तीर्थनाथोजिनेश्वरः । शुद्धमतिः शिवकरः, स्यन्दनोऽघविनाशकः संप्रतिर्भावतः पूज्यो- जनचित्तसुधारकः । अतीत जिननामानि पुण्यान्येतानि भूतले त्रिकालं यः पठेन्नित्यं, नामान्येतानि भावतः ! स पुमाँल्लभते सिद्धिं, मनोभीष्टां सुदुर्लभाम् ॥ ८ ॥ वर्त्तमानाऽधुना ख्याता, चतुर्विंशतिरीर्यते । कामदा सिद्धसंकल्पा, निकटोपकृतिप्रदा
॥ ९ ॥
For Private And Personal Use Only
|| 6 ||