________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२७) स्थापितानि चतीर्थानि, चत्वारि शुभहेतवे । कार्याणि नरनारीणां, सिद्धानि कृपया तव ॥ १५ ॥ शैलेषीध्यानमाश्रित्य, शिवसाम्राज्यमाप्तवान् । निरजनो निराकारो-भवदुःखविनाशनः ॥१६ ॥ शुद्धेन चेतसा ध्याये-यो नरः सुखलीप्सया । भवपारं व्रजत्याशु, स क्रमतीणकल्मषः ॥१७॥ कीर्तयन्तो जनाः सद्यः, शर्मसन्ततिदायकम् । श्रीमदहगणं मुक्ति-सौधमासादयन्ति वै ॥१८॥ सुखदुःखसमा बुद्धि-य॑स्य वै जायते सदा । स विवेकी स तचज्ञो-विन्दते चोत्तमां गतिम् ॥ १९ ॥ विधिव-त्सद्गुरोभक्ति-माचरन्विबुधो जनः । सम्यग्ज्ञानक्रियाधर्म-मासाद्य मोदते सदा ॥२०॥ ज्ञानक्रियारतो जीवो-निरवद्यपथाश्रितः। इहलोकसुखं भुक्त्वा, चान्ते मोचपुरी व्रजेत् ॥ २१ ॥ ज्ञानविज्ञानमूलानि,सुखानि सर्वदा नृणाम् । प्रत्यहं वृद्धिमायान्ति, क्षीयन्ते न कदाचन ॥ २२ ॥ सद्गुरोः सेवया तद्धि, प्राप्यते विशदात्मभिः । मार्दवचेन सर्वाणि, कार्याणि सफलानि वै ॥२३॥ इन्द्रियाणि वशं येन, नीतानि नीतिमानिना। तस्य वश्यं जगत्सर्व, प्रणमन्ति सुरा अपि ॥२४॥
For Private And Personal Use Only