________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६८) बननमृत्युहं पादपङ्कजं, विमलबोधिदं यस्य शोभनम् । जगति देहिनां तारकं स्थितं, जिनपति महावीरमाश्रये ॥४॥ जयति शासनं यस्य निर्मलं, प्रणतदेहिनां मुक्तिसाधनम् । निखिलकर्मणां वारकं वरं, जिनपतिं महावीरमाश्रये ॥५॥ भवभवार्तिहां यस्य वाचना, समयवेदिनः श्रद्धयाऽनिशम् । श्रुतिगतां जनाः कुर्वते रता-जिनपति महावीरमाश्रये ॥६॥ भवति केवलं यद्गुणवजो-क्षयकरो महामोहवैरिणः । अवणगोचरो भव्यभावतो, जिनपतिं महावीरमाश्रये ॥७॥ तिथिरहो सदा स्मर्यते सका, मुनिपतिर्गतो यत्र मोक्षके । भविजनैर्महामोदधारकै-जिनपति महावीरमाश्रये ॥८॥ जिनपतेरिदं स्तोत्रमुत्तमं, पठति यः शृणोत्पन्वहं मुदा । व्रजति संपदं देवदुर्लभां, जितमदः स वै सौम्यदर्शनः ॥९॥ वसुमतीतलं पादपद्मतः, सुरनतः सदा पावयन्विभुः। जनगणोद्धति योऽकरोदरं, जिनपति स्तुवे त्रैशलेयकम् ॥१०॥ विगतवासनं कर्मवैरिणां, हतकमन्वहं बोधदायकम् । जनमनोहरं शान्तमानसं, जिनपाते महावीरमाश्रये ॥ ११ ॥ सुमतिदायिनी शान्तभावना, भवति यद्विभादर्शनक्षणे । तमधिनायकं सर्वदेहिनां, जिनपति महावीरमाश्रये ॥ १२ ॥ कलिमलाऽपहं यत्पदाम्बुजं, सुरगणानतं राजतेऽनघम् । विमलशासनं तं जिनेश्वरं, हृदि विचिन्तये वीरमन्वहम् ॥१३॥
For Private And Personal Use Only