________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९७ )
विज्ञानतत्वनिचितं, भव्यात्मनां सुरुचितम् । महावीर ! तावकीनं, जयमेति शासनं वै ॥ शिवदं ॥ ३ ॥
तव शासनं वहन्तः, सुखभागिनो महान्तः पदमुच्चमेव यान्ति, तरंति चाऽघनीरम् ॥ शिवदं ॥ ४ ॥ भगवंस्त्वयाऽतिचण्डो,–भुजगः समुद्धृतोऽभूत् ।
शरणागतस्य रक्षिन् १, कुरु मामपि प्रसन्नम् ॥ शिवदं ॥५॥ त्रायस्व दीनमनसं, तीर्थाधिनाथ ? विषयात् । सुखदं सदैव धेहि, सुकृतं सतां हि रुचिरम् । शित्रदं - || ६ || श्रजितोदधेः कृतेयं भवता स्तुतिर्विधार्या ।
मम भावनेति सिद्धा, भवताद्धि सौख्यबद्धा ॥ शिवदं - ||७||
|| श्रीमहावीरस्तोत्रम् ॥ ललित ( भद्रिका ) छन्दः
सकलसिद्धिदं सिद्धभावनं, वनजलोचनं चारुमूर्त्तिकम् । मतिमतां मतं सन्मतार्थिनां, जिनपतिं महावीरमाश्रये ॥ १ ॥ मुनिगणैः श्रितं देवदानवैर्नरगणैः सदा संस्तुतश्रियम् । परमतत्वदं यस्य दर्शनं, जिनपति महावरिमाश्रये ॥२॥ चरितमुत्तमं चारुदर्शनं, शमितकामनं मानहारकम् । शिवसुखङ्करं योऽचरन्मुदा, जिनपतिं महावीरमाश्रये ॥ ३ ॥
For Private And Personal Use Only