________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६६ )
विदया स्वया सुप्रकाशिता - Sनवरतं महानर्थहारिणी । तव विभो ? कृपा लोकतायिनी, शरणमस्तु मे केवलं भवान् ॥ १४ भवमहोदधौ मज्जदङ्गिनां, दृढमिहाऽसि वै तारकः प्रभो ? | १ स्वदपरार्थनं मुग्धमानवो - मनसि चिन्तयेत्कर्मयन्त्रितः ॥ १५ ॥
॥ अथाऽऽनन्दमन्दिरनाममङ्गलस्तवनंप्रारभ्यते ॥
श्रीमद्वीरजिनं नमामि नितरां भिन्नान्तरारिवजं,
कृत्वा घातिककर्मणां चयमरं ध्यानेऽथ शुक्ले स्थितम् ॥ कैवल्यं विमलं प्रपद्य परितो नादेन धर्मामृतं,
वर्षन्तं करुणाऽर्णवं भविजन क्षेत्रेषु सर्वप्रियम् ॥ १ ॥ विभाव्य संसारमनित्यमेके, प्रपेदिरे संयमधर्ममाशु | व्रतानि च द्वादशकेऽपि भव्याः, सम्यक्त्वमेकेऽपि विशुद्ध मापुः ॥ तस्मिन्दिने संघमनन्तशोमं, संस्थाप्य पूज्योत्तम मब्धि संख्यम् ॥ भूमण्डले नित्यविहारकारी, भव्यान् जनांस्तारयितुं सुखेन ॥ ३ ॥ नमोऽस्तु ते सर्वजगत्क्षमान्छे ? सिद्धात्मने सर्वविकारहीन ? || अनन्तसिद्धे ? अजरामराय, तीर्थाधिपाऽनन्तगुणार्णवाय ॥ ४ ॥ अकर्मसङ्गाय विरागमूर्त्ते १, अखण्डभावाय जगत्सवित्रे | धर्मप्रणेत्रे नयवर्त्मदेष्ट्रे, नमो नमस्ते प्रभवेऽभवाय ॥ ५ ॥
For Private And Personal Use Only