________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८८ )
श्रीनेमिनाथजिन ( ज्ञानपंचमी) स्तुतिः
शंखच्छद्मधरः शिवातनुभवः श्रीनेमिनाथः शिवसम्पश्यै भवतु क्षमाशमयुतः पञ्चप्रमादोज्झितः । पञ्चाक्षीविजयी जयोद्यतमतिः पञ्चाश्रवाणां सदा, पञ्चम्यास्तपसि प्रसक्तमनसां सत्पञ्चमज्ञानवान् ॥१॥ नामेयत्रिशला सुतादिरनिशं तीर्थङ्करौघः शिवं,
दद्याद्देवनरेन्द्रवन्दितपदो लेभे गतिं पञ्चमीम् । पर्वाssराज्य महाव्रतोत्तमतया तीर्थङ्करैः सेविते, पञ्चम्यास्तपसि स्थिताय विमले भव्यात्मने ज्ञानदे ||२||
निर्वाणाऽमितशर्म भव्यमनुजा आसादयन्ति क्षणाद्,
येषां दृष्टिनिपातनेन करुणादिन्यौकसां सन्ततम् । तेषामागमराशयः कृतधियां तीर्थङ्कराणां वराः,
कल्याणं प्रदिशन्तु पञ्चमतिथावाराधनोत्साहिनाम् ||३||
मत्तेभौघकपोलभेदनमहाप्रो धृतवेगाऽजित
सिंहारूढवपुः करस्थितकजाऽलङ्कारसंभूषिता । देव्यम्बा रुचिराssकृतिर्जिनवरे भक्तिं सदा विभ्रती, पश्चम्यास्तपसि प्ररूढमनसां शान्ति तनोत्वन्वहम् ||४||
For Private And Personal Use Only