________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८७) पार्श्वजिनस्तुतिः (१)
नम्राऽखण्डलवृन्दमस्तकमणिवातेन घुष्टक्रम, दिकचक्रं निजतेजसा विलसता प्रोद्दीपयन्तं सदा । निर्वाणप्रियपत्तनाऽध्वनि महासार्थाधिपं पुङ्गवं, वन्दे पार्श्वजिनेश्वरं सुभविना कल्याणमालाप्रदम् ॥ १॥ श्रेयःसन्ततिदायकान् जिनक्रान्सर्वाञ्छुभध्यायिनां, सत्तच्वागमराशिभाषणपरान् दुर्वादिवादक्षतान् । अज्ञानान्धचयप्रणाशनविधी भास्वत्प्रभाभासुरान्, कुर्वेऽहं स्तुतिगोचरान्पटुमतिानस्थितान्सर्वदा ॥२॥ कल्याणं विदधातु वो नयगणद्योत्यागमौषः सदा, श्रीमत्तीर्थकृतां मुखाम्बुजसमुद्भूतोऽविता भूतले । भूतानां हतभूरिसंमृतिभयः सन्मार्गसंदीपकः, सद्यो मोहमहान्धकारहरणे प्रद्योतनो निर्मलः ॥३॥
सर्वोपद्रवनाशिनी जिनमतप्रक्षोभकक्षोभिनी, पद्मावत्यजिता परैरनुदिनं दुदिनां दारिका । देवी शासनरक्षिकाऽङ्कशकरा संघाऽऽपदां वारिका, सर्वत्राऽभयदायिनी विजयताज्जैनेन्द्रमार्गश्रिता ॥४॥
For Private And Personal Use Only