________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(2) (३) श्री ऋषभजिनस्तुतिः
( वसन्ततिलकावृत्तम् ) कल्याणमन्दिरमुदारमवद्यभेदि,
सत्कर्मकारणमनन्पविभानिधानम् । शक्रा यदीयचरणाम्बुजमानमन्ति,
नाभयमीशमनिशं तमहं स्तवीमि ॥ १॥ देवाधिदेवनिकरस्य नमामि नित्यं,
भीताभयप्रदमनिन्दितमंघ्रिपद्मम् । सर्वार्थसिद्धिनिलयं जनकामितानां,
संपादकं मथितमोहमहाप्रचारम् ॥२॥ जैनेन्द्रवाङमयमशेषसुखैकधाम,
श्रेयांसि वो दिशतु दुःखलतालवित्रम् । संसारसागरनिमजदशेषजन्तु
संतारणे प्रवहणं प्रवरं गरिष्ठम् ॥३॥ चक्रेश्वरी विमलपादसरोजयुग्मं,
सेवां दधात्यजितनाथसुशासनस्य । देवी दुरन्तभववाद्धिपतजनानां, पोतयमानमभिनम्य जिनेश्वरस्य · ॥४॥
For Private And Personal Use Only