________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८१ )
ज्ञानाऽसिक्षत कर्मजालममलं मुक्तिप्रियाऽऽलिङ्गितं, सम्पूर्णार्थमहं नमामि शिवदं सिद्धं च बुद्धं सदा ॥ १ ॥ गच्छाऽधीश मनेक सद्गुणमयं सौम्यं गणानां पतिं, वन्देऽहं वरवाचकं श्रुतधरं चान्त्यादिधर्मप्रियम् । मित्राऽमित्रसमान दृष्टिमखिलां चारित्रिणां मालिकां, निर्वाणाssस्पदसाधनोद्यतमतिं भूमण्डले चाऽन्वहम् ॥ २
श्रीसर्वज्ञ गणप्रदिष्टमनघं ज्ञानं पवित्रं परं,
तत्वार्थप्रतिपादने च कुशलं सद्दर्शनं सौख्यदम् । विच्छिन्नाऽऽस्रवकर्म गुप्तिसमिति क्षेमं च चारित्रकं, दुष्कर्मेन्धनदाहदक्षमतुलं प्रीत्याऽऽश्रये सत्तपः ॥ ३ ॥
पापौघप्रलये हुताशनसमं माङ्गन्यमालाप्रदं,
त्रैलोक्ये परमोपकारकरणे तच्त्रं परं सद्गुरुम् । भावाssपत्तिविदारकं गुणवतां शुद्धेः परं कारणं, वन्दे मोचसुखस्य कारणमिमं जन्मादिदुःखाऽपहम् ॥४॥
भव्याऽब्जप्रतिबोधने दिनमा संसार सिन्धुप्लवं, चिन्तारत्नसुरद्रुमादधिगुणं सद्भाव संवर्द्धकम् । श्राराध्यं नवकाररूपमनघं तच्वत्रयोद्दीपकं, वन्देऽहं नितरां सुखैकसदनं श्रीसिद्धचक्रं मुदा ॥ ५॥
For Private And Personal Use Only