________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८२ )
श्रीपर्युषणपर्वस्तुतिः । पर्वण्युत्तमसिद्धिधामनि जनाः ? पूजां प्रभोर्भावतः, संप्राप्तेष्टविधां शुभां रचयत स्नात्रोत्सवं सोत्सवम् । श्रीमद्वारजिनेश्वरस्य कृतिनः सत्पुण्यसम्पत्तिदां, येनैवाऽत्र परत्र शर्म निखिलं संप्राप्यते निर्भयम् ॥१॥ आराध्याऽतिविशुद्धिदं क्षतिकरं भव्यं तपःकर्मणां, सर्वज्ञाः सकला वराम्बुजचयैः पूज्याः प्रमोदाऽऽस्पदाः । श्रोतव्यं चरितं तदीयमतुलं दीव्यप्रभावं जनरस्मिन् पर्वणि येन ते जनिमतां कल्याणमालाप्रदाः ॥२॥ कृत्वा शर्मनिधानकं भविजनैः षष्ठाटमाऽऽख्यं तपोऽ
मारीघोषणकं विधेयमिह वै पर्वण्यमुष्मिन् शुभे । ध्यातव्यानि शुभं च पञ्च सुधिया कल्याणकानि व्रतं,
बाध्यः श्रीयुतगौतमादिगणभृद्वादस्तथाऽईदिर ।। ३॥ कम्पाख्यं मुनिभिः प्रवाचितमिह श्राव्यं त्रिधा देहिनः,
सूत्रं मूलमनर्थहारि सकलाः क्षाम्यास्त्रिरत्नान्वितम् । पूजा संघजनस्य चैत्यनिकरे यात्रा च कार्या मुदा, सङ्के त्वं सकले शुभे ! वितनुतात् सिद्धायिके ! सम्पदम् ॥४
For Private And Personal Use Only