________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८० )
इष्टार्थप्रतिपादनेऽमरतरुं सिद्धान्ततच्चाऽऽलयं,
श्री वामातनुजं सुरासुरगणैर्वन्द्यं सदा भावतः । स्वर्गे भूमितले च नागवसतौ ख्यातप्रभावं प्रभुं
श्रीसंखेश्वर पार्श्वनाथमनिशं वन्देऽक्षयार्थप्रदम् ॥ २ ॥ दुर्भेद्यानि विभिद्य बोधपविना कर्माणि यो मूलतः,
प्राप्याऽनन्तफलं चिरत्नमतुलं ज्ञानाऽऽख्यरत्नं विभुः । लेभे निर्वृतिसौख्यमात्महितदं स्वानन्दिताऽऽत्मा स्वयं, श्री संखेश्वर पार्श्वनाथमनिशं वन्दे तमिष्टप्रदम् ॥ ३॥ त्रैलोक्याऽधिपतिं पवित्रवपुषं लोकत्रयोद्धारकं,
पापानामविलोकनीयमनिशं मुक्तिप्रियाऽऽलिङ्गितम् । श्रम्भोजाक्षियुगं प्रसन्नवदनं स्वच्छद्विजालिप्रभं,
श्रीसंखेश्वर पार्श्वनाथमनिशं वन्देऽक्षयाऽर्थप्रदम् ॥ ४ ॥ अधिदीप भुजेङ्गभू (१९७४) परिमिते संवत्सरे वैक्रमे,
मासे माधव उत्तमेऽसितदले यद्दर्शनं पावनम् । प्राप्तं पुण्यवतां सदैव सुलभं दुष्प्रापमन्याङ्गिनां, श्रीसंखेश्वरपार्श्वनाथ मजिताऽऽनन्दप्रदं नौम्यहम् ॥५
श्रीसिद्धचक्र चैत्यवन्दनम् ॥ १५ ॥
( शार्दूलवि० वृ० )
आराध्यं जिनपुङ्गवं गतमदं शक्रादिसंपूजितं, सज्ज्ञानादिगुणैक रत्न निलयं निर्दोषसन्मानसम्
For Private And Personal Use Only