________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७१) लोकानामुपकारकर्मनिरतो ज्ञानेन नैर्मन्यमान,
सिद्धान्तेषु महत्सु लब्धमहिमा सर्वेषु सिद्धक्रियः । वेदेषु प्रथितश्च चित्रचरितः ख्यातः पुराणेष्वपि, __ श्रीमानादिजिनेश्वरो दिशतु वःश्रेयस्ततिं शोमनाम ॥३॥ भक्तानामभयङ्करं जितभयं नाऽन्तादिमध्यक्रियं,
हर्तारं दुरितस्य शान्तिकलितं लीलागृहं संपदाम् । नाभिक्षमापतिवंशमस्तकमणिं सम्यग् रमाराजितं,
वन्देऽहं प्रभुमादिनाथमनिशं त्रैलोक्यरचाकरम् ॥ ४ ॥ सर्वोपद्रवपनगप्रमथने नागान्तकोऽनन्तकः,
सौवर्णोपमवर्णका शुभमहोक्षाऽङ्कन विभाजितः । श्रेयः सन्ततिगुल्मिनीजलधरो धर्मापगाधिरः,
श्रीमानादिजिनेश्वरोऽजितनतः पायादपायाजनान्॥५॥
श्रीसंखेश्वरपार्श्वनाथचैत्यवन्दनम् ॥१४॥
( शार्दूलवि० वृ० ) कीर्तिर्यस्य विराजतेऽतिविमला गौडीपुरे पूर्वरे,
तीर्थस्तम्भनके च लोद्रवपुरे वाराणसीपत्तने । जीरावल्यमिधानके सुविदिते तीर्थेऽतिरम्यद्धिके,
श्रीसंखेश्वरपार्श्वनाथमनिशं वन्दे तमिष्टप्रदम् ॥१॥
For Private And Personal Use Only