________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७४) श्रीमत्पदृणपत्तनेऽधिवसति, सौभाग्यसाराऽऽस्पदं,
यः पार्थाऽधिपतिः करोति जनता-भावोन्नतिप्रापकः। तस्येदं भवभीतिहारि मनुजो-या कीर्तयेदष्टकं, निर्वृत्तिं समुपैति सोऽतिरभसा, निर्मानमारार्तिकः ॥ ९ ॥ श्रीपञ्चासरपार्श्वनाथनमनं प्रीत्या प्रकुर्वन्मुहु
राकाशर्षिनिधिक्षपाकरमिते ( १९७० ) संवत्सरे वैकमे । मासे फान्गुनके सिते प्रतिपदि स्तोत्रं तिथावेतक, दीव्याभोऽजितसागरः श्रुतधरो वाचंयमो निर्ममे ॥१०॥
श्रीयुगादीश्वरजिनस्तवनम् ॥ १३ ॥
(शार्दूलविक्रीडितवृत्तम् ) आत्मानन्दविलासमनमनसं शुद्धस्वरूपात्मकं,
संसाराऽम्बुधिलङ्घने प्रवहणं कल्याणमालाऽङ्कितम् । दुष्कर्मेद्रमपावकं शुभमति-प्रोद्दीपने दीपकं,
वन्देऽहं प्रभुमादिनाथमनिशं त्रैलोक्यरचाकरम् ।। १ ॥ गार्हस्थ्ये सकलाः कलाश्च विशदं शिल्पं बभाषे समं,
कैवल्यं प्रतिपद्य यः क्रमतया 'विस्तारयामासिवान् । तच्चानि प्रथितानि दीव्यमहिमा धणि धर्मिप्रियो
वन्दे तं प्रभुमादिनाथमनिशं त्रैलोक्यरचाकरम् ॥ २॥
For Private And Personal Use Only