________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७३) प्रदीपौ प्रकुर्वद्विभावर्जितौ द्रा
गिलादुर्गसंस्थं स्तुवे शान्तिनाथम् ॥ १२ ॥ विशाला विभोः शुद्धपद्मासनस्था,
सुमूर्तिः सुरूपा प्रमाणप्रसिद्धा । मनोहारिणी स्वागतानां नराणामिलादुर्गसंस्थं स्तुवे शान्तिनाथम् ॥ १३ ॥
जना भाविनो भक्तिसंभारवन्तः,
समेत्याऽत्र दुष्कर्मभीतिं त्यजन्ति । सुकर्मार्जयित्वा लभन्तेऽमरत्वमिलादुर्गसंस्थं स्तुवे शान्तिनाथम् ॥१४॥
प्रभो ! शान्तिनाथ ! त्वमेवाऽसि लोक
त्रयाऽधीशिता दुःखहर्ता जनानाम् । भवे त्रायको विद्यते कोऽपि नाऽन्य
इलादुर्गसंस्थं स्तुवे शान्तिनाथम् ॥१५॥
अहं दर्शनाते विभो । जातकृत्यः,
स्मरामि त्वदीयं पदद्वन्द्वमीड्यम् । सदा प्रार्थितार्थप्रदातारमीशमिलादुर्गसंस्थं स्तुवे शान्तिनाथम् ॥ १६ ॥
For Private And Personal Use Only