________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७४ )
( उपजातिवृत्तम् )
चौलुक्य वंशाऽम्बरभानुमाली, सम्यक्त्वशाली सुकृतैकभागी । न्यायप्रधानो जितमोहमानो-जितेन्द्रियः सर्वत एष मान्यः ॥ १७ ॥
नराऽमरेन्द्रस्पृहणीयशीलः, कुमारपालः चितिपालमुख्यः । शशास भूमण्डलमेकवीरः शचीपतिर्दीव्यभुवं यथैव ॥ १८ ॥ निर्मापितस्तेन वरेण्यवर्णः, श्रीशान्तिनाथस्य महाविहारः ! प्राक्पुण्यभाराऽर्जितशुद्धकीर्त्ति व्रजः स्थितोरम्य इवाऽतिभाति ।।
इयद्दरक्षोणिधरोविभूषां, श्रीशान्तिनाथालयतो विशेषात् । चकास्ति संप्राप्य धराधराणां, राजेव चूडामणितां प्रपन्नः || द्विपञ्चसंख्याप्रमितानि जैन- चैत्यानि रेजुः परितः प्रधानम् । श्री शान्तिगेहं जितना शोभं, तारागणस्था शशिमण्डलीच ॥ कुमारपालेन विनिर्मितः खर तराSSख्य गच्छस्य जिनालयोऽयम् पट्टावलीले खतएव शान्तिदो - निश्चीयते निर्मलतानिदानम् ॥ २२ ॥ श्रीवीर तो बाण वसु द्विवर्षे ( २८५), बभूविवान् संप्रतिभूमिपालः । व्यभूषय द्यो धरणीं जिनालयैः, सहस्रसंख्यैरतुलप्रभाधरैः | २३ | बिम्बानि तेनैव सहस्ररश्मि- तेजोभिभावीनि विधापितानि । विलोकयन्संप्रति भव्य लोक स्तनोति सम्यक् शिवसंपदं स्राक् ॥ इलादिदुर्गेऽत्र विधापितोऽसौ श्री शान्तिवासः चितिपेन तेन ।
"
For Private And Personal Use Only