________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७२) मृगाः सौम्याकारा-स्तुणजलमतानन्दविभवा
भ्रमन्त्यक्षुब्धास्ते, प्रभुपदप्तमीक्षापटुधियः । यथाकालं सर्वो-निजहितकरः को न भवति, इलादुर्गे दुर्गे, जयति जिनतीर्थ जयकरम् ॥ ८ ॥
(भुजंगप्रयातवृत्तम् ) सदाक्रान्तशान्ति महामारिशान्ति,
प्रजाशान्तिदं शान्तवैरिप्रभावम् । महाक्रोधचण्डारिशान्तिप्रतान
मिलादुर्गसंस्थं स्तुवे शान्तिनाथम् ॥९॥ कलौ शान्तिदानप्रदं शान्तमृत्ति,
सदा देवदेवाधिपैः स्तुत्यकीर्तिम् । गुणान्यस्य वक्तुं न शक्तोऽपि जीव
इलादुर्गसंस्थं स्तुवे शान्तिनाथम् ॥१०॥ शशी तिग्मरश्मिः समेतौ किमत्र, __ यदीयाऽवतंसच्छलेन स्वभावात् । प्रभोर्दर्शनाऽऽकांक्षयोद्भूतमोदा
विलादुर्गसंस्थं स्तुवे शान्तिनाथम् ॥११ ।' विभोर्भालपट्टस्थितं शुद्धरत्न
मनध्य सदोद्योतयद्धाम सर्वम् ।
For Private And Personal Use Only