________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६४) संसारोदधिपोतमक्षयकरं संसेव्य चारित्रक,
शस्थानन्तगुणाऽऽकरं भवभय-च्छेत्तारमिष्टप्रदम् । सर्वत्राऽभयदानदक्षमखिलत्रस्ताङ्गिनां त्रायक,
शेरीशाऽभिधपत्तनाधिवसनं पार्थप्रभुं नौमि तम् ॥८॥ खाऽष्टाङ्कक्षिति संमिताऽद्धमधुगे शुद्धाऽष्टमीवासरे,
शेरीशाऽधिपपार्श्वनाथचरणः कृत्वा नतिं भावतः। स्तोत्रं भव्यमिदं चकार भविनामालम्बनं भूतले,
सूरीन्द्रोऽजितसागरश्चिरतरं चैतक्षितौ राजताम् ॥९॥
श्रीमदगाशितीर्थस्तोत्रम् ॥ ९ ॥
(मन्दाक्रान्तावृत्तम् ) बोभूयन्ते विभवबहुलास्त्वत्प्रभावप्रयुक्ता
जङ्गम्यन्ते जननमरणानिर्भयत्वं गुणज्ञाः । सासद्यन्ते निरुपमवरां मगलानां प्रशस्ति,
नन्नम्ये सु-व्रतमुनिपतेऽगाशिपूर्भासिबिम्बम् ॥१॥ मान्यो यावा-नमितमहिमा तावकीनस्त्रिलोक्यां,
ताकेषा-मभयजनको नैव दृष्टः श्रुतो वा। मन्दायन्ते सुगतिभवने निधनानां (निर्दयानां) मनांसि, नमध्ये सु-व्रतमुनिपतेऽगाशिपूर्भासिबिम्बम् ॥२॥
For Private And Personal Use Only