________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यद्दष्टिक्षण प्रातनोति विविधां माङ्गल्यहारावली,
सद्बोधं दिशति प्रियं प्रथयति त्रैलोक्यरक्षावहम् । मानं मईयति क्षणाजनयते सौजन्यजन्यं यशः,
शेरीशाभिधपत्तनाधिवसनं पाचप्रभुं नौमि तम् ॥३॥ पक्ष्यानं विधुनोति पूर्वनिचितारिष्टाऽष्टकर्माऽऽवली,
कैवल्यं कलयन्त्यमन्दमुनयो यद्ध्यानतेजःश्रिताः। तेनैवोच्चगतिं श्रयन्ति विबुधा नित्योत्सुका योगिनः,
शेरीशाभिधपत्तनाधिवसनं पार्श्वप्रभु नौमि तम् ॥४॥ यन्मूर्तिहृदि धारिता भवभवां पीडां समुन्मूलय
त्यानन्दं जनतापहं नवनवं स्थाणूकरोत्यात्मनि । कौशन्यं प्रकटीकरोति विमदं सर्वार्थसिद्धिप्रदं,
शेरीशाभिधपत्तनाधिवसनं पार्श्वप्रभु नौमि तम् ॥५॥ यत्पूजास्नपनेन विघ्नविततिर्याति क्षयं सर्वथा,
पश्चेषुः क्षयतां व्रजत्यनुदिनं शाम्यन्ति घोरारयः । कुष्ठादिप्रचुरायोऽपि निखिला नश्यन्त्यरक्ता इव,
शेरीशामिधपत्तनाधिवसनं पार्श्वप्रभुं नौमि तम् ॥६॥ यन्मूर्धस्थितवायुभोजनफणासन्तानसंदर्शनाद् , __ भीताऽऽखुक्षयकुद्गणः परवशः संयाति देशान्तरम् । आपत्तिप्रभवे सति क्षणमपि स्थानं भजेको हित
छरीशामिधपत्तनाधिवसनं पाचप्रभु नौमि तम् ॥७॥
For Private And Personal Use Only