________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3
-
卐
સબેધનું મહત્વ.
विश्वदुःखविनाशार्थं विश्वसेवा प्रतिष्ठिता। कार्या सात्विकबुद्धया सा विश्वोद्धारकसजनैः ॥ १८७ ॥ विश्वविद्यालयादीनां कर्तव्या स्थापना शुभा। यद्धर्मे तादृशी सेवा तद्धर्मो वर्धते सदा ॥ १८८ ॥ योजनीयाः प्रबन्धास्ते धर्मरक्षणकारकाः। देशकालव्यवस्थात-स्तीर्थकृन्नामबन्धकाः ॥ १८९ ॥ मह्यां स्वास्तित्वरक्षायै धर्मादीनां तथैव च ॥ कर्तव्यानि सुकर्माणि कारणीयानि बोधतः ॥ १९० ।। आवश्यकानि कर्माणि धर्मास्तित्वाय भूतले ।। सामाजिकबलायेन कर्तव्यानि सुयुक्तितः ॥ १९१ ॥ यानि परार्थकर्माणि-विश्वोद्धाराय तानि वै ॥ पुण्यबन्धादिमूलानि देष्टव्यानि महीतले ।। १९२ ॥ धर्मप्रभावनाकर्म-कर्तव्यं सततं जनैः ॥ अज्ञानां धर्मलाभार्थं दानसेवादिभिः शुभम् ॥ १९३ ॥ धर्मज्ञानप्रचारार्थं पाठशालादिकं शुभम् ॥ कर्तव्यं कारणीयं च धर्मकामार्थसेवकैः ॥ १९४ ।। साहाय्यं धर्मिलोकानां देयं सत्कारभक्तितः ।।। कर्तव्या साधुषु प्रीतिः मोहादिक्लेशनाशिना ॥ १९५ ॥ त्याज्या संकुचिता दृष्टि-रुन्नतेर्विनकारिका ॥ उदारैः सत्प्रबन्धैश्च कर्तव्या धार्मिकोन्नतिः ॥ १९६ ॥
શબ્દાર્થ સહ વિવેચન –રજોગુણ અને તમોગુણવિનાશાર્થે તથા સાત્વિકધર્મની વૃદ્ધિ માટે વિશ્વમાં સર્વલેકેને સદ્ધ આપ જોઈએ તથા સાત્વિકાચને સમર્પવા
८४
For Private And Personal Use Only