________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनाचार्यश्रीमदअजितसागरसूरिवृत्तान्तम् ।
प्रणम्य पद्मप्रभपद्मनाथं, संक्षेपतोऽहं कथयामि किश्चित् । गुरुप्रसादाद् गुरुजीवनस्य, शुभं चरित्रं गुणवृद्धिहेतुम् ॥१॥
विविधवैभवशालिनि चारुतर( चरोतर )देशे पेटलादपत्तनसनिधौ प्रधानतो वैश्यजनमण्डितोऽन्वर्थनामा नार( नरसमूह )इत्यभिधानं दधानो ग्रामः प्रसिद्धः समस्ति । यस्मिन्वीतरागधर्मोपासकाः कियन्तः स्वेष्टदेवता उपासते, यैर्धर्मसन्तानकराः कतिपयाऽर्भकाः सद्गुरुभ्यः समर्पिताः, दीक्षिताश्च ते धर्मोन्नतिं विदधति, एतस्मिश्च ग्रामे परमात्मिकधर्मनिष्ठो वैश्य( लेउआपाटीदार )कुलविभासकः (लल्लुभाइ) इत्याख्याख्यापकोऽभवत् , धर्मपत्नी च तस्य शीलवतीनां प्रशंसनीया (सोनबाई ) नामाऽऽसीत् , दम्पती चोभौ समानशुभशीलौ विनीतस्वभावौ प्रभुभक्तिपरायणौ शुद्धदेवगुरुभक्तिभाजावुदारमानसौ प्रेमाङ्कुरपोषको सततं बभूवतुः। यस्याः कुक्षौ शुभस्वप्नसूचितोऽयं गर्भत्वेन समवातरत् । वि. सं. द्विचत्वारिंशदधिकैकोनविंशतितमे हायने पोषशुक्लपञ्चम्यां सा बालमजीजनत् , द्वादशेऽह्नि पित्रा ( अंबालाल ) इत्यभिधानमकारि । क्रमेण बालशशाङ्क इव स वृद्धिमगमत् , प्रकृत्यैवासौ निजपितृगुणानुसारी शुभलक्षणसूचितो भविष्यद्भाग्योदयवशात् सामुद्रिकलक्षणैः कियद्भिरुपलक्षितोऽभूत् , आद्यवयस्येव तं वाग्मित्वं बुद्धिवेशद्यञ्चाशिश्रियताम् । अत एवासावचिराद् गुर्जरगिरां रहस्यमवेदीत् । स च वाक्चातुर्यबुद्धिप्रभावं
For Private And Personal Use Only