________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४३
प्रस्तावना । ]
पित्रा वा तत्पूर्वजेन निधानीकृतं धनं दर्शितमिति विकल्पयन्ति केचन, यदि सांकाश्ये तद्धनं निहितं चेत्पूर्वजेन, तद्धारायां कथं संभाव्यते ? धारानगयाँ देवर्षिणैव गुप्तीकृतं संभाव्यते । अत्र च देवर्तिसम्बन्धस्तद्विषये प्रकाशितः । अतोऽन्ये मतभेदा नाऽत्र प्रदर्शिताः कारणशून्यत्त्वात् । इत्थं शोमनमुनिख्यातिं प्रदर्श्य तत्कृति स्वीमि -
अस्यां शोभनस्तुतौ श्रीमदृषभादिचतुर्विंशतिजिनानां स्तुतयः षण्णवतिश्लोकपरिमिताः । प्रत्येकजिनस्तुतौ चत्वारि काव्यानि तेषु प्रथम काव्येन यस्य जिनस्य स्तुतिस्तत्स्तवना, द्वितीयस्मिन् चतुर्विंशतिजिनानां स्तुतिः, तृतीयस्मिन्नागमस्तुतिः चतुर्थे च काव्ये शासनरक्षकदेवस्तवनम् । इमाश्चतुर्विंशतिजिनानां स्तुतयोऽष्टादशधा छन्दोभिर्निबद्धा: छन्दः शास्त्रनियमोपेताः सर्वसौन्दर्यानपेताः कविप्रवरस्य पाण्डित्यं प्रकाशयन्ति । अधिष्ठायकदेवीनामेव स्तुतिविहितेति न किन्त्वत्र श्रुतदेवताः षोडश विद्यादेव्यः अम्बिका - शान्तिदेवी ब्रह्मशान्तिकपर्दीयाश्व स्तुताः
शब्दालङ्कारेष्वनेकधा यमका योजिताः, अनुप्रासानां घटनाऽप्यु चतरा निवेशिता, विस्मयस्त्वेषः, प्रकृतशब्दानामुपयोगतः शब्दसौन्दसुगमत्वसम्पादने प्रयत्नो विहितः । अस्याः स्तुते गौरवत्त्वन्त्वदमेव लक्ष्यते यन्यायाचार्य - न्यायेविशारद श्री मद्यशोविजयोपाध्याय
(1) अहिगयजिणपढमथुई, बीआ सव्वाणतइयनाणस्स । वेयावच्चगराणं, उवओगत्थं चउत्थ थुई ॥ १ ॥ ( देववन्दनभाष्ये गाथा ० ५२ )
२ ) श्री यशोविजयमहामहोपाध्यायविनिर्मितेन्द्रस्तुतिरिति काचिदलौकिका कविजनमनोहारिणी कृतिः । शोभनमुनिकृतजिन स्तुतिचतुर्विंशतिकाया अनुकृतितया विदुषां समाजे प्रसिद्धच्छन्दोऽलङ्कारैः क्वचिच्छब्दार्थैरपि जिनस्तुति चतुर्विंशतिक्या अस्या कृतेः सादृश्यं दरिदृश्यते । अत एव विदुषां प्रमोदाय अस्य ग्रन्थः 'परिशिष्टे मूलकृतिः संगृहीता ।
For Private And Personal Use Only