SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२] [ शोभनस्तुतेः धनपालोऽपि स्वनिर्मितटीकायामेवं स्पष्टतया तद्विज्ञापयामास । भिक्षाटनं कुर्वताऽनेन मुनिनाऽपूर्वभाववाहिनी गम्भीरार्थगौरवान्विता विविधच्छन्दोऽलङ्कारादिसमन्विता पण्णवतिकाव्यमयी स्तुतिरियं व्यधायि, तर्हि तत्कृता अन्ये ग्रन्थाः कथं न भवेयुः ? अखिलानि पुस्तकनिधानानि दुःषमसमये नष्टप्रायाण्यभूवन् तत्र किमक्षयं भवेत् ? केवलं सिद्धान्ततत्त्वकोविदोऽयं नासीत् , महामुनिधर्मविराजितोऽप्यभवत् । धनपालः स्वयमेवोचे-रूपेण स्वाकृत्या सद्गुणैश्च स शोभन: समभूत् , नाम्नैव न । अस्य स्तुतिकारस्य ज्येष्ठ भ्रातृधनपालरचिततत्स्तुतिटीकाऽवतरण-तद्रचिततिलकमञ्जरीपीठिका-चन्द्रप्रभसूरिकृतप्रभावकचरित्रस्थश्रीमहेन्द्रसूरिप्रबन्ध--श्रीमेरुतुङ्गाचार्यविहितप्रबन्धचिन्तामणौ भोजभीमप्रबन्ध-श्रीहरिभद्रसूरिकृतसम्यक्त्वसप्तति-श्रीसंघतिलकसूरिरचितवृत्ति-श्रीविजयलक्ष्मीसूरिकृतोपदेशप्रासाद-श्रीजिनलाभसूरिरचितात्मप्रबोधादिग्रन्थानुसारेण मया यथोचितमिदं शोभनमुनिवृत्तं निवेदितम् । तलिंकार-न्याय-काव्यतीर्थोपाधिधारिणा श्रीहिमांशुविजयमनिराजेन गुर्जरप्रस्तावनायां तच्चरित्रं सम्यग विशदीकृतं, तेनाऽपि महाशयाः तुष्टिं लभेरन् । अस्मिन्विषये क्वचिन्मतभेदोऽप्यस्त्येव, वस्तुतस्तदकिश्चित्करम् । श्रीशोभनमुनेः पितरं सर्वदेवं गुणनिष्पन्नतया-उपनामतः, सोमश्रीभार्यायाः साम्यतश्चाऽन्ये ग्रन्थकाराः लक्ष्मीधर-सर्वधर-सोमचन्द्रनामतो निर्दिशन्ति धनपालस्तु निजपितरं ' सर्वदेव' इत्याख्यया ख्यापयति, मयाऽप्यतस्तन्नामनिर्देशो विहितः । श्रीधनपालः स्वरचिततिलकमञ्जयाँ श्रीमहेन्द्रसूरिं प्रशंसति-अतो दीक्षागुरुः स एवात्र निर्दिष्टः, केचिन्न वर्द्धमानसूरिं जिनेश्वरसूरिं च दीक्षागुरुं दर्शयन्ति । जैनग्रन्थकाराः दीक्षागुरुंविद्यागुरुं च तं निर्दिशन्ति । इत्थं मतभेदाः सन्ति यतो-वर्धमानसूरेः, महेन्द्रसूरेश्च समकालीनत्वं तत्र हेतुत्वेन गण्यते । परं तु दीक्षागुरुस्तु महेन्द्रसूरिरेव विद्यागुरुत्वेन श्रीवर्धमानसूरियदि संभाव्येत तहीषद्युक्तं स्यात् । For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy