________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १५९) निमजजनोत्तारनौर्भारती तीर्थकृत् ? महति मतिमते हितेशय मानस्य वा संसदा तन्वती तापदानं दधानस्य सामानि नः ॥ ९५ ॥
टीका-परमतेति । — अतन्वतीतापत्' अतन्व्यः विपुलाः अतीता आपदो यस्य सः यस्माद्वा तदामन्त्रणम् । ( मतिमते हित ! विदुषे हितकारिन् ! ) ( हे ) तीर्थकृत् ' तीर्थाधीप !। 'हि' निश्चयेन । 'शस्यमानस्य' शस्यतेऽसौ शस्यमानस्तस्य ' वर्तमाने कर्मणि शानच् । स्तूयमानस्य । · आनन्दधानस्य' आनन्दस्य धानं-पदं तस्य प्रमोदस्थानस्य । ' अमानिनः ' निरहङ्कास्य । अथवा सामानिनः इत्येकं पदं, सहाऽमानिभिः-दर्परहितैवर्त्तते यस्तस्य । — ईशस्य ' स्वामिनः । — नः ' अस्माकम् । 'सामानि '-प्रियाणि । ' दधानस्य' धत्तेऽसौ दधानस्तस्य पुष्णतः । "ते" तव । 'सा' तथा भूता । ' परमततिमिरोग्रभानुप्रभा' परमतान्येव परेषां बौद्धादीनां मतानि परमतानि तान्येव तिमिराणि तेषां ध्वंसहेतुत्वात् उग्रभानोस्तिग्मांशोः प्रभा-कान्तिकल्पा । 'भूरिभङ्गैर्गभीरा' भूरिभिः प्रचुरैर्भङ्गैरर्थविकल्पै शं गभीरा दुर्ग्राह्या। 'जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमजजनोत्तारनौः' जननानि च मृतयश्च ता एव तरङ्गा यस्य स जननमृतितरङ्गः स चासौ निष्पारसंसारनीराऽऽकरश्च-तीररहितभवाब्धिश्च तस्याऽन्तर्निमजतां जनानामुत्तारे नौणीभूता। ' मतिमतेहिता' मतिमता-प्रज्ञावता ईहिता-समीहिता (अथवा हे हित !) मानस्य संसद्वा मानस्य-पूजायाः संसद्वा-सभा इव “ मानं प्रमाणे प्रस्थादौ, मान श्चित्तोनतौ ग्रहे ॥ मानः स्यादपि पूजायां, इति शब्दसिन्धुः “ मन्ये शङ्के ध्रुवं प्रायोनूनमित्येवमादिभिः। उत्प्रेक्षा व्यज्यते शब्दैरिव शब्दोऽपि तादृशः॥१॥ " वा प्रचेतसि जानीया-दिवार्थे च तदव्ययम्” इति मेदिनी ।
For Private And Personal Use Only