________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१५७ ) कल्पशोभा च, आतपत्राणि-छत्रत्रयं च, प्रभा च ताभिर्गुरु-महाहम्। " सालः पादपमात्रे स्यात् प्राकारे" इति विश्वः। 'परेताहितारोचितं ' परेताः-अपगताः अहिताः शत्रवो येषां तैर्मुनिभिरारोचितमुपशोभितम् । अथवा परा-प्रधाना इताहिता इताः-नष्टा अहिताः शत्रवो यस्याः सेति विशेषणद्वयमहत्संहत्याः । ' आरोचितं' अरन्ति-संसारपारं गच्छन्तीत्यरा मुनयस्तेषां समूह आरं तस्य मुनिसमुदायस्योचितम् । “ आरः शत्रुसमूहे ना, भ्रमणे मुनिवृन्दके। तथा रीरी शनिमः” इति शब्दसिन्धुः ' रोचितं ' शोभितम् । 'यशोभातपत्रप्रभागुर्वराराटपरेताहितारोचितम् ' यशसा-कीर्त्या भातानि-शोभितानि पत्राणि गजाश्वसुखासनादीनि वाहनानि तानि प्रभजन्तीति यशोभातपत्रप्रभाजः, " पत्रं स्याद्वाहने पर्णे, पक्षे च शरपक्षिणोः" । इति मेदिनी । एतादृशा ये उर्वराराज:पृथ्वीपालाः परेताः-पिशाचा व्यन्तरदेवविशेषाः, अहयो नागकुमाराः, तारा:-ज्योतिषिकाः, यशोभातपत्रप्रभागुर्वराराजश्च परेता श्व अहयश्च ताराश्चेतीतरेतरद्वन्द्वस्तेषामुचितं-योग्यम् । “ यत्रद्वित्वं बहुत्वं च, स द्वन्द्व इतरेतरः समाहारो भवेदन्यो-यत्रैकत्वं नपुंसके ॥ १ ॥” : समवसरणं' सुरकृतं तीर्थकृतां देशनास्थानम् । ' अत्र ' इह । ' अराराट् ' अतिशयेन व्यराजत् । 'राज' दीप्तौ, अनद्यतने कर्तरि परस्मैपदे यङ्लुगन्तरूपम् । — सा'' भवाम्भोधिसम्भ्रान्तभव्यावलीसेविता ' भव एवाऽम्भोधिः-समुद्रस्तस्मिन् संभ्रान्ता-व्याकुलीभूता या भव्यानामावली-श्रेणिस्तया सेविता, 'असदवनमदशोकपृथ्वी' सह दवनेन वर्तते सदवना च सोपतापा च मदशोकाभ्यां च पृथ्वी च । वितता या न भवति सा । ' ईक्षणप्रा' ईक्षणानि-नेत्राणि प्राति-पूरयति-आप्यायति या सा । अथवा ईक्षणानि-ज्ञानानि प्राति-ददातीति ईक्षणप्रा । ' अर्हतां ' तीर्थकृताम् । संहतिः ' समुदायः । ' भक्तिभाजां' अनुरागजुषाम् । ' समीहितं' वाञ्छितम् । 'प्रवितरतु' प्रयच्छतु प्रकर्षेण विदधात्वित्यर्थः ।। ९४॥
For Private And Personal Use Only