________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३८) तं नेमि नम नम्रनिर्वृतिकरं चक्रे यदूनां च योदक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥८५ ॥
शार्दूलविक्रीडितम् टीका-चिक्षेपोर्जितेति-' यः' (विभुः) अक्षामं-नक्षाममक्षामें तत्-समर्थ । ' लक्षसंख्य' लक्षाः संख्या-प्रमाणं यस्य तत्, ( अथवाऽलक्ष्यसंख्यं ) अविभाव्यपरिमाणम् । ' अर्जितराजकं' ऊोंबलं सञ्जातमस्येत्यूर्जितं, राज्ञां समूहो राजकमूर्जितश्वतद्राजकं चेतिकर्मधारयः । “स सम्राडथ राजकं" ।। राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् ॥ इत्यमरः । तत् बलिष्ठराजसमूहं । 'रणमुखे' रणस्य मुखमारम्भस्तस्मिन् , संग्रामारंभे “ मुखं निःसरणे वक्त्रे, प्रारम्भोपाययोरपि" इतिविश्वः । 'क्षणात्' अक्षेपेण, 'चिक्षेप' निरस्तवान् । ' यश्च' 'यदूनां' यादवानाम् । ' दक्षां' असंमूढाम् । — राजी ' श्रेणी ( सेनां ) · अतीतापदं' अतीता आपदो यस्याःसा अतीताऽऽपद् तां अतिक्रान्तविपदम्। 'चक्रे' कृतवान् । 'तं ' (हे ) 'जन !' मानवसङ्घ ! — भासमानं' विराजमानम् । ( अथवा जनैर्भासमानं ) ' अहसं ' न विद्यते हसो हास्यं यस्य स इति बहुव्रीहिः, 'हासस्तु हसनं हसः “ घर्घरो हासिका हास्यं, तत्राऽदृष्टरदे स्मितम्” इति हैमः । ' अविद्यमानहासं' ( अथवा जनभासमानमहसमित्येकं पदम् ) जनेषु भासमानं महस्तेजो यस्य तम् ।
'राजीमतीतापदं' राजीमती-उग्रसेनराजधारिण्योः सुता तस्या मनोरथविफलीकरणात् तापदं-तापं ददातीति तापदस्तं सन्तापदायिनं पश्चात्तु शिवसुखप्रदम् । 'नम्रनिर्वृतिकरं' नम्राणां निर्वृतिमोक्षसुखं वा करोतीति तम् “निर्वृतिः सुस्थितासौख्य निर्वाणाऽस्तङ्गमाध्वसु" इति विश्वः । अञ्जनभासमानमहसं ' अञ्जनस्य भयाप्रभया-कज्जलकान्त्या समानं-सदृशं महस्तेजो यस्य तम् । “ महस्तू
For Private And Personal Use Only